দ্বাদশ শ্রেণীর সংস্কৃত গদ্যাংশ আর্যাবর্তবর্ণনম্

উচ্চ মাধ্যমিক শিক্ষা সংসদ কর্তৃক নির্ধারিত দ্বাদশ শ্রেণীর আর্যাবর্তবর্ণনম্ গদ্যাংশটির মূলপাঠ নিম্নে সংস্কৃত ভাষায় দেবনাগরী লিপিতে তুলে ধরা হল ।

দ্বাদশ শ্রেণীর আর্যাবর্তবর্ণনম্ সংস্কৃত গদ্যাংশ

আর্যাবর্তবর্ণনম্ গদ্যাংশটির মূলপাঠ দেবনাগরী হরফে দেওয়া হল –

আর্যাবর্তবর্ণনম্ – প্রথম অংশ

अस्ति समस्तविश्वम्भराभोगभास्वल्ललामलीलायमानः, समानः सेव्यतया नाकलोकस्य, ग्राम्यकविकथाबन्ध इव नीरसस्य मनोहर:, भीम इव भारतालङ्कारभूतः अग्रणी: सर्वविषयाणाम्, अनधीतव्याकरण इवादृष्टप्र कृतिनिपातोपसर्गलोपसवर्णविकारः, पशुपतिजटाबन्ध इव विकसितकनककमलकुवलयोच्छलितरजः पुञ्जपिञ्जरितहंसावतंसया प्रचुरचलच्चकोरचक्रवाककार ण्डवमण्डलीमव्डिततीरया भगीरथभूपालकीर्तिपताकया स्वर्गगमनसोपानवीथीयमानरिङ्गत्तरङ्गया गङ्गया पुण्यसलिलैः, प्लावितश्चन्द्रभागालंकृतैकदेशश्च, शरण्य: पुण्यकारिणाम्, आरामोरामणीयककदली वनस्य, धाम-धर्मस्य, आस्पदं सम्पदाम्, आश्रयः श्रेयसाम्, आकरः साधुव्यवहाररत्नानाम्, आचार्यभवनमार्यमयी-दोपदेशानामार्यावर्तो नाम देशः।

আর্যাবর্তবর্ণনম – দ্বিতীয় অংশ

यस्मिन्ननवरतधर्मकर्मोपदेशशान्तसमस्तव्याधि व्यतिकराः पुरुषायुषजीविन्यः सकलसंसारसुखभाजः प्रजाः । तथा हि, स्फोटप्रवादो वैयाकरणेषु, ग्रहसंक्रान्तिर्ज्योतिः शास्त्रेषु, भूतविकारवादः सांख्येषु, गुल्मवृद्धिर्वनभूमिषु, गण्डकोत्थानं पर्वतवनभूमिषु दृश्यते न प्रजासु।

আর্যাবর্তবর্ণনম্ – তৃতীয় অংশ

यत्र चतुरगोपशोभिताः संग्रामा इव ग्रामाः, तुझसकलभवनाः सर्वत्र नगा इव नगरप्रदेशाः, सदाचरणमण्डनानि नूपुराणीव पुराणि, सदानभोगाः प्रभञ्जना इव जनाः, प्रियालपनसाराणि यौवनानीव वनानि, विटपिहिताश्चेटिका इव वाटिकाः, निर्वृतिस्थानानि सुकलत्राणीवेक्षुक्षेत्रसत्राणि, कुपितकपिकु लाकु लिता लङ्केश्वरकिंकरा इव भग्न-कुम्भकर्ण-घनस्वापाः सूर्यद्युतय इव कुलस्त्रियः। : कूपाः, सतीव्रतापदोषाः

আর্যাবর্তবর্ণনম – চতুর্থ অংশ

अपि च

भवन्ति फाल्गुने मासि वृक्षशाखा विपल्लवाः ।

जायन्ते न तु लोकस्य कदापि च विपल्लवाः ।।

আর্যাবর্তবর্ণনম্ – পঞ্চম অংশ

यत्र सौराज्यरञ्जितमनसः सकलसमृद्धिव – र्धितमहोत्सवपरम्परारम्भनिर्भराः सततमकुलीनं कुलीनाः, प्राप्तविमानमप्राप्तविमानभङ्गाः कतिपय वसुविराजितमनेकवसवः समुपहसन्ति स्वर्गवासिनं जनं जनाः ।

আর্যাবর্তবর্ণনম – ষষ্ঠ অংশ

कथं चासौ स्वर्गान्न विशिष्यते । यत्र गृहे गृहे गौर्यः स्त्रियः, महेश्वरो लोकः, सश्रीका हरयः, पदे पदे धनदाः सन्ति लोकपालाः। केवलं न सुराधिपो राजा न च विनायकः कश्चित् ।

আর্যাবর্তবর্ণনম – সপ্তম অংশ

किं वहुना –

देश: पुण्यतमोहेशः कस्यासौ न प्रियो भवेत् ।

युक्तो ऽनुक्रोशसम्पन्नैयाँ जनैरिव योजनैः ।।

আর্যাবর্তবর্ণনম্ গদ্যাংশ থেকে অন্যান্য পোস্ট

আর্যাবর্তবর্ণনম্ গদ্যাংশের মূল পাঠ, অন্বয়, শব্দার্থ ও বঙ্গানুবাদ

Leave a Comment