ভারতবিবেকম নাট্যাংশ – একাদশ শ্রেণীর সংস্কৃত

ভারতবিবেকম নাট্যাংশ (higher Secondry Class – xi) পাঠ্যটির মূলপাঠ দেবনাগরী লিপিতে নিচে দেওয়া হল।

ভারতবিবেকম নাট্যাংশ

भारतविवेकम्

(प्रथमदृश्यम्)

श्रीरामकृष्णेन सह श्रीनरेन्द्रस्य साक्षातकारः

समय:- रात्रे: सप्तमघटिका (ख्रीष्टान्दः १८८१)

स्थानम् – कलिकाता– सिमुलियाञ्चले श्रीसुरेन्द्रनाथ-मित्रस्य गृहम् ।

श्रीरामकृष्णदेवः, श्रीसुरेन्द्रनाथमित्र:, भक्ताश्च ।

श्रीरामकृष्णः – मातः ! मातस्तुभ्यं नमः ।

जयति जयति यति- जनगति-जननी भवतारिणी ।

नियत- विहित-सुतशतहित-बन्ध-मोक्षकारिणी ।।

ममताघन-करुणानयन-तृषित-शान्तिकारिणी ।।

गृह- शतशत-विरचनरत-कोटिदुःखहारिणी ।

सदाऽकारणकृपाकारिणि !

तनय-तनय-पुण्यविनय-धन्यं मां कुरु जननि ! मातः ! जगतः शतशतक्लेशा: मम हृदयं विदारयन्ति त्वं कृपया साधनशतं मां विज्ञापितवती । किन्तु कुत्र ममोत्तरसाधकाः ? उत्तरसाधकनित्यदर्शनलालसा हृदयं मम निरन्तरं क्लिश्नाति । जगज्जननि ! कुत्र मम शिवसमोत्तरसाधको यदर्थमहं नित्यमपेक्षे ?

ভারতবিবেকম নাট্যাংশ

सुरेन्द्रनाथ: – (स्वगतम्) अहो! मधुरेयं सन्ध्या ! पुनः गुरुदेवस्य अनिर्वचनीयो महिमा ! यत्रैव एष तिष्ठति, तत्स्थानं क्षणाज्जायते देवमन्दिरसदृशम् । शरीरादस्य निरन्तरं प्रसरति ज्योतिधारा, वाक्यान्निर्गलति निरन्तर प्रवाहि-सुरधुनिधारेव सुधा, हास्यान्नि: सरति अरुणकिरणराशिः ।

श्रीरामकृष्णः (सुरेन्द्रमुद्दिश्य) सुरेन्द्र ! भृशं वाञ्छामि मातृकास्तुतिं श्रोतुम्। कश्चन तरुणगायकवरस्तव गृहसकाशे विद्यते वा? तस्मै चेतो ममोत्कण्ठते ।

सुरेन्द्रः – देव! विद्यते मम गृहसकाशे नरेन्द्रनाथनामधेयः दत्तवंशोद्भवोयुवकः । साम्प्रतं सः विद्यार्जनरतः, ब्राह्म मन्दिरादिकञ्च गच्छति । तरुणे वयसि वर्तमानोऽपि असौ सत्यमेव संगीतनिपुणः ।

श्रीरामकृष्णः – (हर्षान्वितः) किं नाम ? नरेन्द्र इति ? सत्यं सर्वनरश्रेष्ठ एवासाविति कथं मह्यं प्रतिभाति ?
अथवाऽकारणं वा स्निह्यत्यस्मिन्मम मनः। अहो ! अपूर्व वस्तु खलु मनो यदनागतकारणं सूचयति । (जननीं भवतारिणीमुद्दिश्य बद्धाञ्जलिर्भूत्वा) जननि! अप्येष नरेन्द्रो वरणीयतमो मम मानसपुत्रः स्यात् । मातः कृपामयि! कदापि त्वं मृषा न निर्दिशसि सत्वरं ब्रूहि मातः । एष नरेन्द्र एव मम श्रेष्ठ उत्तरसाधक: स्यात् ? (सुरेन्द्रमुद्दिश्य) सुरेन्द्र ! नरेन्द्रनामधारिणे तरुणाय सन्देशं मे प्रेषय। तदर्शनायाहमाकुलो वर्ते ।

ভারতবিবেকম নাট্যাংশ

सुरेन्द्रः – (विस्मयमापन्नः) नैष नरेन्द्रो गुरुदेवपरिज्ञातः । किन्तु कथमयं गुरुदेवो मे तस्मै भृशमुत्कण्ठते? अथवा गहना खलु महतां चित्तवृत्तिः। (श्रीरामकृष्णमुद्दिश्य) देव! अहं यामि। भवता क्षणमास्यताम् । अचिरेण प्रत्यावर्तिष्येऽहम् ।

श्रीरामकृष्णः – अहो! तरुण एव शिक्षणीयः । कोमलहृदयत्वात्सर्वमेव तस्य हृदि भवत्यङ्कितम् । काङ्क्षाम्यहं द्रष्टुं जटाजुट-धारिणं सर्वभारवाहिनं सुरधुनि-कलकलधारामलिनं शिवं विश्वस्य शङ्करं ममोत्तरसाधकम् ।

नरेन्द्रनाथः – (सुरेन्द्रनाथो नरेन्द्रेण सह प्रत्यावृत्तः) (प्रविश्य) साधवे नमः । ( श्रीरामकृष्णस्तं निपुणं पश्यति। नरेन्द्रश्च किञ्चित् पर्याकुलो दृश्यते)

श्रीरामकृष्णः – (स्वगतम्) एष एव स वालको यदर्थमहं नक्तन्दिवं प्रार्थये । कोमलकुञ्चितकेशदाम-सुसज्जशिरस्काकर्ण-विस्फारितनयनोऽयं दर्शनदानेनेव मामतुलनं नन्दयति । हृदयतटिनी मम सगर्जनं प्रवहतितरां सागरसंगमे सागरजलस्फीतिप्रभावात् यथा गङ्गतोयधारा। नटनृत्यचटुलमिव भासते मम चित्तस्थलं यत्र मम स्मृतिगुल्मदलं कम्पते मलयपवनस्पर्शात् पुलकाकुलं वेणुवनं यथा ।

ভারতবিবেকম নাট্যাংশ

नरेन्द्रनाथः – (स्वगतम्) अहो! कथमहं नात्मानं प्रशमयितुं समर्थोऽस्मि ! नाहं स्वीकरोमि स्वीकरिष्यामि वा तथापि हृदयं मे एष एव हृदयानन्दश्चन्द्रो यस्यानन्दरश्मीश्चकोर इवाहं पिवामि। कोऽसौ महानुभावः कोटिसूर्यसमप्रभः, अथ च कोटिचन्द्रसुशीतलो राजते धरातले? अथवा क्षणिक, क्षणिक एव मे चित्तविकार: ? मानवशरीरे भागवतसत्तारोपं नाहं कदापि स्वीकरिष्यामि। धिङ्मम विद्यां यदित्थमपप्रलापमिवाहं कृतवान्, धिङ् माम् ।

श्रीरामकृष्णः – (स्वगतम्) निवारिता मम दीर्घपिपासा श्रेष्ठभक्तसन्तान वदनकमलनिरीक्षणेन, एष एवं मम सर्वशुभङ्करसदाशिव आकर्णविस्तृतनयनेन्दीवरो भुजयुगनिन्दित करिकर-युगधारी व्यूढोरस्कः सदाशिव अधुना सुरेन्द्रेण सह समायातः ।
अहो! आनन्दविह्वलः किमहं करिष्यामि ! (आनन्देन नृत्यति)

नरेन्द्रनाथ: – (स्वगतम्) कथमुन्मत्त इव नरीनृत्यमान एष जनो मम हृदयं पर्याकुलयति । अथवैष मम चित्तस्य भ्रमः ।

सुरेन्द्रः भगवन्! व्यामोह इव मम समुपजातो यदहमेनं नरेन्द्रं पितृपरिचयादिक्रमेण भवस्तकाशे नासादितवान् ।

ভারতবিবেকম নাট্যাংশ

श्रीरामकृष्णः – सुरेन्द्र ! एष मम जन्मजन्मान्तरपरिचितो जनः, कथं तद्दत्तपरिचयापेक्षी भवेयम् ? अथवा नायमुद्वेगकारणम् । (नरेन्द्रमुद्दिश्य) नरेन्द्र! त्वन्मुखान्मातृनाम भृशं श्रोतुकामोऽस्मि । संगीतेन कुरु मम चित्तविनोदनम् ।

नरेन्द्रः – जननी मयि प्रसीदतु । (गायति)

मनो निभृतं पश्य श्यामां जननीम् ।

श्मशानवासिनीं नृमुण्डमालिनीम् । हिमाचलनन्दिनीं विश्वपालिनीम् ।

मनो मेऽहर्निशं पश्य

जगद्धात्रीं भवबन्धहारिणीं

शक्तिस्वरूपिणीं जननीम् ।

श्रीरामकृष्णः – नरेन्द्र ! अपूर्वः तव कण्ठस्वरः । अपरिमितञ्च तव भक्तिमाहात्म्यम् । (स्वगतम्) जननि! देवि भवतारिणि! त्वं भृशं कृपापरायणा यथैष एव वरेण्यसन्तानो देशस्य सर्वकालिमानं

दूरीकर्तुं शक्नुयात् । ( श्री यतीन्द्रविमल चतुर्थुरिणा विरचितात् भारतविवेकमिति नाट्यग्रन्थाद्गृहीतम्।)

একাদশ শ্রেণীর সংস্কৃত নাট্যাংশ ভারতবিবেকম্ থেকে মূলপাঠ, সন্ধিবিহীন পাঠ, শব্দার্থ ও বঙ্গানুবাদ ।

একাদশ শ্রেণীর সংস্কৃত নাট্যাংশ ভারতবিবেকম্ হতে বৈকল্পিক প্রশ্ন ও উত্তর ।

একাদশ শ্রেণীর সংস্কৃত নাট্যাংশ ভারতবিবেকম্ হতে ছোটো প্রশ্ন ও উত্তর ।

একাদশ শ্রেণীর সংস্কৃত নাট্যাংশ ভারতবিবেকম্ রচনাধর্মী প্রশ্ন ও উত্তর ।

Leave a Comment